पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ ३२
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ ३३
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३४
तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः । वैदेह्या निपतन् भाति गङ्गेव गगनाच्च्युता ॥ ३५
उत्पातवाताभिहता नानाद्विजगणायुताः । मा भैरिति विधूतामा व्याजह्रुरिव पादपाः ।। ३६
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः । सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम् ।। ३७
समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः । अन्वधावंस्तदा रोषात् सीतां छायानुगामिनः ॥ ३८
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः । सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३९
ह्रियमाणां तु वैदेहीं दृष्त्वा दीनो दिवाकरः । प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः ।। ४०
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेहीं भार्यां हरति रावणः ।। ४१
इति सर्वाणि भूतानि गणशः पर्यदेवयन् । वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥ ४२
उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः । सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ।। ४३
विक्रोशन्तीं दृढं सीतां दृष्त्वा दुःखं तथागताम् । तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् ।। ४४
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् । स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ।। ४५
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता ॥
४६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे सीताविक्रोशो नाम द्विपञ्चाशः सर्गः

त्रिपञ्चाशः सर्गः रावणभर्त्सनम्

खमुत्पतन्तं तं दृष्टा मैथिली जनकात्मजा । दुःखिता परमोद्विमा भये महति वर्तिनी ॥ १
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदती करुणं सीता ह्रियमाणेदमत्रवीत् ॥ २
न व्यपत्रपसे नीच कर्मणानेन रावण । ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ ३
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ।। ४
यो हि मामुद्यस्त्रातुं सोऽप्यय विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ ५
परमं खलु ते वीर्यं दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ ६
ईदृशं गर्हित कर्म कथं कृत्वा न लज्जसे। स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥ ७