पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सोते मनोरथैः ।। २३
न शक्यो वायुराकाशे पाशैर्बन्द्धुं महाजवः । दीप्यमानस्य चाप्यग्नेर्ग्रहीतुं विमला शिखा ।।२४
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्वाहुपरिपालिताम् ।। २५
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ॥ २६
अभिषेकोदकल्लिन्ना तुष्टा च रमयस्व माम् । दुष्कृतं यत्पुरा कर्म वनवासेन तद्रतम् ।।२७
यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि । इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि ।। २८
भूषणानि च मुख्यानि सेवस्व च मया सह । पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ।। २९
विमानं सूर्यसंकाशं तरसा निर्जितं मया । विशालं रमणीयं च तद्विमानं मनोजवम् ।। ३०
तत्र सीते मया सार्ध विहरस्व यथासुखम् । वदनं पद्मसंकाशं विमलं चारुदर्शनम् ।।३१
शोकार्त तु वरारोहे न भ्राजति वरानने । एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ।। ३२
पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् । ध्यायन्ती तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ।। ३३
उवाच वचनं पापो रावणो राक्षसेश्वरः । अलं ब्रीडेन वैदेहि धर्मलोपकृते न च ॥ ३४
आर्षोऽयं देवनिष्यन्दो यस्त्वामभिगमिष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३५
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते । इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ।। ३६
न चापि रावणः कांचिन्मूर्ध्रा स्त्रीं प्रणमेत ह । एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥ ३७
कृतान्तवशमापन्नो ममेयमिति मन्यते ॥

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे सीताविलोभनोद्यमो नाम पञ्चपञ्चाशः सर्गः