पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

रावणं मैथिली तत्र पुनर्नोवाच किंचन । सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।। २३
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः । शृणु मैथिलि मद्वाक्यं मासान द्वादश भामिनि ॥ २४
कालेनानेन नाभ्येषि यदि मां चारुहासिनि । ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ २५
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः । राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ।। २६
शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः । दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥२७
वचनादेव वास्तस्य सुघोरा राक्षसीगणाः । कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ।। २८
स ताः प्रोवाच राजासौ रावणो घोरदर्शनः । प्रचाल्य चरणोत्कर्षैर्दारयन्निव मोदिनीम् ॥२९
अशोकवनिकामध्ये मैथिली नीयतामियम् । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३०
तत्रैनां तर्जनघोरैः पुनः सान्त्वैश्च मैथिलीम् । आनयध्वं वशं सर्वा वन्यां गजवधूमिव ।। ३१
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः । अशोकवनिकां जग्मुमैथिलीं प्रतिगृह्य तु ।। ३२
सर्वकालफलैर्वृक्षैर्नानापुष्पफलैवृताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ।।३३
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा । राक्षसीवशमापना व्याघ्रीणां हरिणी यथा ॥ ३४
शोकेन महता ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाशबद्धा मृगी यथा ।। ३५
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता।
पति स्मरन्ती दयितं च दैवतं विचेतनाभूद्भयशोकपीडिता ।। ३६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहरितकायां संहितायाम् अरण्यकाण्डे वत्सरावधिकरण नाम षट्पञ्चाशः सर्गः

सप्तपञ्चाशः सर्गः

रामप्रत्यागमनम्

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि निवर्तते ॥ १
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः । २