पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ततितमः सर्गः .

इम देशमनुप्राप्ती क्षुधार्तस्येह तिष्ठतः । सवाणचापखड़गौ च तीक्ष्णशृङ्गाविवर्षभो ।।
ममास्यमनुसंप्राप्तौ दुर्लभ जीवितं पुनः । तस्य तद्वचनं श्रुत्वा कबन्धम्य दुरात्मनः ।। ४६
उवाच लक्ष्मण रामो मुखेन परिशुध्यता । कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ।
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् । कालस्य सुमहद्वीयं सर्वभूतेषु लक्ष्मण ॥
त्वां च मां च नरव्याघ व्यसनैः पश्य मोहितौ । नातिभारोऽस्ति देवस्य सर्वभूतेषु लक्ष्मण ।। ४९
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः।
इति ब्रुवाणो दृढसत्यविक्रमो महायशाः दाशरथिः प्रतापवान् ।
अवेक्ष्य सौमित्रिमुग्रपौरुषं स्थिरां तदा वा मतिमात्मनाकरोत् ।।

इत्यार्थे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिमहसिकायां संहितायाम् अरण्यकाण्डे कबन्धग्राहो नाम एकोनसप्ततितमः सर्गः सप्ततितमः सर्गः कबन्धबाहुच्छेदः

तौ तु नत्र स्थितौ दृष्टा भ्रातरौ गमलक्ष्मणौ । बाहुपाशपरिक्षिप्तो कबन्धो वाक्यमब्रवीत् ॥
तिष्ठतः किं नु मां दृष्ट्वा क्षुधात क्षत्रियर्षभौ । आहारार्थ तु संदिष्टौ दैवेन रनवेतौ ।।
सच्छुत्वा
लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । ज्यापति समापन्नो विक्रमे कृतनिश्चयः ।।
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू॥
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः । लोकं प्रतिजितं कृत्वा द्यावा हेच्छति ॥
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः । ऋतुमध्योपनीतानां पशूनामिव राघव ॥
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्य ततो रौद्रं तौ भक्षयितुमारभत् ।।
ततस्तौ देशकालझौ खड्गाभ्यामेव राघवौ । अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥
दक्षिणो दक्षिणं बाहुमसतमसिना ततः। चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥
स पपात महाबाहुश्छिन्नबाहुमहास्वनः । खं च गां च दिशश्चैव नादयञ्जलदो यथा ।।
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः। दीनः पप्रच्छ तौ वीरौ को युवामिति दानवः ॥ ११
इति तस्य भुषाणस्य लक्ष्मणः शुभलक्षणः । शशंस राघवं तस्य कबन्धस्य महाबलः ॥
अयमिक्ष्वाफुदायादो रामो नाम जनैः श्रुतः । अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ १३
मात्रा प्रतिहते राज्ये रामः प्रबाजितो वनम् । मया सह चरत्येष भार्यया च महदनम् ।।