पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः सर्गः

यस्मादुद्विमचेतास्त्वं प्रद्रतो हरिपुंगव । तं क्रूरदर्शनं क्रूर नेह पश्यामि वालिनम् ॥ १५ यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६ अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम । लघुचित्ततयात्मानं न स्थापयसि यो मतौ ।। बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर । न त्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ १८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्व हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ।। १९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ । कस्य न स्याद्भयं दृष्ट्वा घेतौ सुरमुतोपमौ ।। वालिप्रणिहितावेतौ शङ्कऽहं पुरुषोत्तमौ । राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ २१ अरयश्च मनुष्येण विज्ञेयाश्छमचारिणः । विश्वस्तानामविश्वस्ता रन्धेषु प्रहरन्ति हि ॥ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः । भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैनरैः ।। २३ तौ त्वया 'प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम । इङ्गिताना प्रकारेश्च रूपव्याभापणेन च । लक्षयरव तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन् प्रशंमाभिरिङ्गिनैश्च पुनः पुनः ।। ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ।। २६ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम । व्याभापिनेर्वा विज्ञेया स्याद्दुष्टादुष्टता तयोः ॥ २७ इत्येवं कपिराजेन संदिष्टो मारुतात्मजः । चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ तथेति संपूज्य वचस्तु तस्य तत् कपः सुभीतस्य दुरासदस्य च । महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतियलश्च लक्ष्मणः ।। इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चतुर्विंशतिसहासकाया संहितायाम् किष्किन्धाकाण्डे सुग्रीवमन्त्री नाम द्वितीयः सर्गः

तृतीयः सर्गः हनूमत्प्रेषणम् वचो विज्ञाय हनुमान सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकातु पुप्लुवे यत्र राघवौ ।। १ कपिरूपं परित्यज्य हनुमान मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया' कपिः ।। २ ततः स हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥ ३ आवभाषेऽथ तौ वीरौ यथावत् प्रशशंस च । संपूज्य विधिवद्वीरौ हनुमान मारुतात्मजः ।। ४