पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

मयापि व्यसनं प्राप्तं भार्याहरणजे महत् । न चाहमेवं शोचामि न ध धैर्य परित्यजे ॥
नाई तामनुशोचामि प्राकृतो वानरोऽपि सन् । महत्मा च विनीतश्च किं पुनतिमान् भवान् ॥ ७
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादा सत्त्वयुक्तानां धृति नोस्रष्टुमर्हसि ॥
ध्यसने वार्थकृच्छ्रे वा भये या जीवितान्तके । विमृशन् वै स्खया बुद्धया धृतिमानावसीदति ।। ९
बालिशस्तु नरो नित्यं वैलव्यं योऽनुवर्तते । स मनत्यवशः शोके भाराक्रान्तेव नौजले ॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्वा प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ।। ११
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ।। १२
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ १३
हितं वयस्यभावेन भूमि नोपदिशामि ते । वयस्यतां पूजयन् मे न त्वं शोचितुमर्हसि ।।
मधुरं सान्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिच्छिन्नं वनान्तेन प्रमार्जयन् ॥ १५
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात प्रभुः । संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ।। १६
कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च । अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १७
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन काले विशेषतः ॥ १८
किं तु यत्नस्त्वया कार्यों मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ।। १९
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वस्तिव च सुक्षेत्रे सुर्व संपद्यते मयि ॥
मया च यदिदं वाक्यमभिमानात् समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ।। २१
अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव शामि ते ।।
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिक्षात विशेषतः ॥ २३
एवमेकान्तसंपृक्तौ ततस्तौ नरवानरौ । उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम ।।
महानुभावस्य वचो निशम्य हरिनराणामृषभस्य तस्य ।
कृतं स मेने हरिवीरमुख्यस्तदा स्वकार्य हृदयेन विद्वान् ।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे रामसमाश्वासनं नाम सतमः सर्ग: