पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः सर्गः १२९

सोऽहं समाज्यो बन्धूनां सुहृदां चैव राघव । यस्याप्रिसाक्षिकं मित्रं लब्धं राघववंशजम् ।।
अहमप्यनुरूपस्ते वयस्यो शायसे शनैः । न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ॥
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतां वर ।।
रजतं वा सुवर्ण का वस्त्राण्याभरणानि च ! अविभक्तानि साधूनामवगच्छन्ति साधवः ।।
आन्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषो वा सदोषो वा बयस्यः परमा गतिः ।।
धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः । वयस्यार्थे प्रवर्तन्ते स्नेह दृष्टा तथाविधम् ॥ ९
तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥
स ददर्श ततः सालमविदुरे हरीश्वरः। सुपुष्पमीपत्पत्राठ्यं भ्रमरैरुपशोभितम् ।। १२
तस्यैको पर्णबहुला भात्वा शाखा सुपुष्पिताम् । मालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।। १३
तावासीनी ततो दृष्टा हनुमानपि लक्ष्मणम । सालशाखां समुत्पाट्य विनीतमुपवेशयन् ।। १४
सुखोपविष्टं गमं तु प्रसन्नमुदधिं यथा । फलपुष्पसमाकीर्णे तरिमन् गिरिवरोत्तमे ।।
तनः प्रहृष्टः सुग्रीवः लक्षणं मधुरया गिरा । उवाच प्रणयाद्रामं हर्षव्याकुलिताभरम् ॥ १६
अहं विनिकृतो भ्रात्रा चराम्येप भयादितः । ऋश्यमूकं गिरिवर हतभार्यः सुदुःखितः ।।
मोऽहं त्रस्तो भये मग्नो वमाभ्युद्भान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राधव ।।
वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रमादं कर्तुमर्हसि ॥ १९
एवमुक्तस्तु तेजस्वी धर्मझो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थ सुग्रीवं प्रहसन्निव ।।
उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव ते हनिष्यामि तव भार्यापहारिणम् ।।
इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २२
कङ्कपत्रप्रतिच्छन्ना महेन्द्राानसंनिभाः । सुपर्वाणः सुतीक्ष्णामाः सरोपा इव पन्नगाः ।।
भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ।।
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २५
राम शोकाभिभूतोऽहं शोकानां भवान् गतिः । वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ।। २६
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतः प्राणैर्वहुमतः सत्येनापि शपामि ते ॥ २७
क्यस्य इति कृत्वा च विनब्धं प्रवदाम्यहम् । दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ।। २८
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाप्पोपहतया वाचा नोचैः शक्नोमि भाषितुम् ॥ २९
बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसंनिधौ ।
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् ।।