पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः

लक्ष्मणस्यापतो रामं तपन्तमिव भास्करम् । हरीणामप्रतो 'वीरमिदं वचनमर्थवत् ॥ ८६
आई: समांसः प्रत्ययः क्षिप्तः कायः पुरा सखे । लघुः संप्रति निर्मासरतृणभूतश्च राघव ॥
परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा । क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ॥
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् । आर्द्र शुष्कमिति खेतत् सुमहद्राघवान्तरम् ॥ ८९
स एव संशयस्तात तव तस्य च यद्वले । सालमेकं तु निर्मिन्द्या भवेद्व्यक्तिबलाबले ॥ ९०
कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवावतम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ९१
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति ।
अलं विमर्शन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो भया ।।
यथा हि तेजःसु वरः सदा रविर्यथा हि शैलो हिमवान् महाद्रिषु ।
यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥

इत्पार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे वालिबलाविष्करणं नाम एकादशः सर्गः द्वादशः सर्गः सुग्रीवप्रत्ययदानम्

एसच वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । प्रत्ययार्थ महातेजा रामो जमाह कार्मुकम् ॥
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थं सप्तभूमि विवेश ह ।।
प्रविष्टश्च मुहूर्तेन धरा भित्त्वा महाजकः । निष्पत्य च पुनस्तूर्ण स्वतूणी पुनराविशत् ।।
तान् दृष्ट्रा सप्त निभिन्नान् सालान् वानरपुंगवः । रामस्य शरवेगेन विस्मयं परमं गतः
स मूर्धा न्यपतझूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥
इदं चोवाच धर्मचं कर्मणा तेन हर्षितः । रामं सर्वानविदुषां श्रेष्ठं शूरमवस्थितम् ।।