पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहामीकिरामायणे किष्किन्धाकाणे

निवर्सस्व सह सीभिः कथं भूयोऽनुगच्छसि । सौहदं दर्शिवं वारे मयि भक्ति कृता त्वया ॥ ।
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् । दर्पमस्य विनेष्यामि न च प्राणैर्वियोश्यते ॥
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृक्षमुष्टिप्रहारैश्च पीडितः प्रतियास्यति ।।
न मे गर्वितमायरस सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहदं दर्शितं मयि ।।
शापितासि मम प्राणनिवर्तस्व जनेन' च । अहं जित्वा निवर्तिध्ये तमहं भ्रातरं रणे॥ १०
तं तु तारा परिष्यज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ।।
ततः स्वस्त्ययनं कृत्वा मन्त्रविद्विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रषिष्टा शोकमोहिता ।। १२
प्रविष्टायां तु तारायां सह खीमिः स्वमालयम् । नगरान्निर्ययो क्रुद्धो महासर्प इव श्वसन ।। १३
स निष्पत्य महातेजा वाली परमरोषणः । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकारक्षया । १४
स पपर्श ततः श्रीमान सुप्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५
स तं दृष्टा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमरोषणः॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धं कृतक्षणः ।
लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम् ।।
सं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् । आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ १९
एष मुष्टिर्मया पद्धों गाढः संनिहिताङ्गुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति ।।
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमत्रवीत् । तव चैव हरन् प्राणान मुष्टिः पततु मुर्धनि ।। २१
ताडितस्तेन संयुद्धस्तमभिक्रम्य वेगितः । अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥
सुप्रीवेण तु निःशवं सालमुत्पाद्य तेजसा । गात्रेवमिहतो वाली वोणेव महागिरिः॥ २३
स तु वाली प्रचलितः सालताडनविडलः । गुरुभारसमाक्रान्ता नौः ससार्थेव सागरे ।
तो भीमबलविक्रान्तौ सुपर्णसमवेगिनौ । प्रवृद्धौ धोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥
परस्परममित्रत्रो छिद्रान्वेषणतत्परौ । ततोऽवर्धत वालो तु बलवीर्यसमन्वितः॥
२६
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।।
वालिन प्रति सामर्षों दर्शयामास 'राधवम् । वृक्षैः सशाखैः सशिवाकोटिनिभै खैः ।।
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव ।।