पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम् । आदित्यमिव कालेन युगान्ते भुवि पातितम् ।। १०
महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।।
न्यूढोरस्क महाषाहुं दीप्तास्यं हरिलोचनम् । लक्ष्मणानुगतो रामो ददर्शीपससर्प च। १२
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अत्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ १३
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः। १४
पराङ्मुखवयं कृत्वा को नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः॥ १५
रामः करुणवेदी च प्रजानां च हिते रतः । सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः॥
इति ते सर्वभूतानि कथयन्ति यशो भुवि । दमः शम क्षमा धर्मो धृतिः सत्यं पराक्रमः ।।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु । तान् गुणान् संप्रधाहमण्यं चाभिजनं तव ।। १८
तारया प्रतिषिद्धोऽपि सुप्रीवेण समागतः । न मामन्येन संरब्धं प्रमत्तं योद्धमर्हति ।।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव । न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।।
जाने पापसमाचार तृणैः कूपमिवावृतम् । सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।। २१
नाहं त्वामभिजानामि धर्मच्छमाभिसंवृतम् । विषये वा पुरे वा ते यदा नापकरोम्यहम् ॥ २२
न च त्वामवजानेऽहं करमान्मा हत्याकल्विपम् । फलमूलाशनं नित्यं वानरं वनगोचरम् ॥ २३
मामिहाप्रतियुध्यन्तमन्येन च समागतम् । त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।।
लिझमप्यस्ति ते राजन् दृश्यते धर्मसंहितम् । कः क्षत्रियकुले जावः श्रुतवानष्टसंशयः ।। २५
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् । राम राजकुले जातो धर्मवानिति विश्रुतः ।। २६
अमन्यो भव्यरूपेण किमर्थ परिधावसि । साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।।
पार्थिवानां गुणा राजन् दण्डश्वाप्यपराधिषु । वयं वनचरा राम मृगा मूलफलाशनाः ।।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः। भूमिहिरण्यं रूप्यं च विद्महे कारणानि च ।। २९
अत्र करते वने लोभो मदीयेषु फलेषु वा । नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।। ३०
राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः । त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ॥
राजवृत्तैरसंकीर्णः शरासनपरायणः । न वेऽस्त्यपचितिधर्मे नार्थे बुद्धिरवस्थिता ।। ३२
इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर । हत्या पाणेन काकुत्स्थ मामिहानपराधिनम् ।।