पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तॄतीयः सर्गः

यच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न से वागनृता काव्ये काचित्र भविष्यति ॥ ३५ कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥ ३६ तावद्रामायणकथा लोकेषु प्रचरिष्यति । यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ॥ ३७ तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ॥ ३८ ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ । तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ॥ ३९ मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः । समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ॥ ४० सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः । तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ॥ कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४१

उदारवृत्तार्थपदैर्मनोरमैस्ततः स रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ ४२ तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥ ४३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे ब्रह्मागमनं नाम द्वितीयः सर्गः

तृतीयः सर्गः काव्यसङ्क्शेपः

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणावेक्षते गतिम् ॥ २ रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सरामेण यत् प्राप्तं तत्र तत्त्वतः ॥ ३ हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥ ४ स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने । सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ॥ ५ ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ ६ तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः । अभिरामस्य रामस्य चरितं कर्तुमुद्यतः ॥ ७ कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ स यथा कथितं पूर्वं नारदेन महर्षिणा । रघुवंशस्य चरितं चकार भगवानृषिः ॥ ९