पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ श्रीमहाल्मीकिरामायणे किष्किन्धाकाण्डे

कर्तु दाशरथेः प्रीतिमाशायां किं न' सजसे । काम खलु शरैः शकः सुरासुरमहोरगान ॥
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञा तु काइते । प्राणत्यागाविशन कृतं तेन तव प्रियम् ॥ २३
तस्य मार्गाम वैदेही प्रथिव्यामपि चाम्बरे । न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ॥
न च यक्षा भयं तस्य फुर्युः किमुत राक्षसाः। तदेवं शक्तियुक्तस्य पूर्व प्रियकृतस्तव ।।
रामस्याईसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् । नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ॥ २६
कस्यचित् सजतेऽस्माकं कपीश्वर तवाज्ञया । तदाक्षापय कः किं ते कृते कुत्र व्यवस्यतु ।
हरयो खप्रधृष्यास्ते सन्ति कोट्यपतोऽनघाः । तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ॥
सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम् । संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम् ॥ २९
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे । यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।। ३०
समागच्छन्त्यसङ्गेन सेनाप्राणि तथा कुरु । ये त्वन्तपालाः नवगाः शीघ्रगा व्यवसायिनः ॥ ३१
समानयन्तु ते सैन्यं त्वरिताः शासनान्मम । स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ।
त्रिपश्चरात्रादूर्ध्व यः प्राप्नुयानंह वानरः । तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ३३
हरीश्च वृद्धानुपयातु साङ्गदो भवान ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्था हरिपुंगवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ।।

हत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकाया सहितायाम् किष्किन्धाकाण्डे हनुमत्प्रतिबोधनं नाम एकोनविंशः सर्गः त्रिंशः सर्गः शरवर्णनम्

गुहां प्रविष्टे सुप्रीवे विमुन्ने गगने धनैः । वर्षरात्रोषितो रामः कामशोकाभिपीडितः ।।
पाण्डरं गगनं दृष्टा विमलं चन्द्रमण्डलम् । शारदी रजनी चैव दृष्ट्रा ज्योत्स्नानुलेपनाम ।
कामवृतं च सुग्रीवं नष्ट च जनकात्मजाम् । बुद्ध्वा कालमतीतं च मुमोह परमातुरः ।।
म तु मंशामुपागम्य मुहूर्तान्मतिमान पुनः । मनःस्थामपि वैदेहीं चिन्तयामास गधवः ।।
आसीनः पर्वतस्याने हेमधातुविभूषिते । शारदं गगनं दृष्टा जगाम मनसा प्रियाम् ।।
रष्ट्रा च विमलं व्योम गतविशुद्रलाहकम । सारसारावसंघुष्ट विललापार्तया गिरा ॥
सारसाराक्संनादैः सारसारावनादिनी । याश्रमे रमते बाला साद्य मे रमते कथम् ।।