पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ श्रीमद्वाम्मीकिरामायणे किष्किन्धाकाण्ड

जल प्रसनं कुमुदं प्रहास कौशवनः शालिवनं विपकम् ।
मृदुश्च वायुर्विमलय चन्द्रः शंसन्ति वर्षज्यपनीतकालम् ।।
मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः ।
कान्सोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ।।
सचक्रवाकानि सशैवलानि काशैर्दुफूलैरिव संवृतानि ।
सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥
५६
प्रफुल्लवाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः ॥
लोकं सुपृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥
प्रसमसलिलाः सौम्य कुररीभिर्विनादिताः । चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ ५९
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः । दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ।। ६०
हंससारसचक्राहैः कुररैश्च समन्ततः । पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ।।
अन्योन्य बद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ६२
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । न च पश्यामि सुप्रीवमुद्योगं वा तथाविधम् ।। ६३
चत्वारो वार्षिका मासा गता वर्षशतोपमाः । मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ ६४
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुधानमिव यागना ।। ६५
प्रियाविहीने दुःखाते हनगज्ये विवासिते । कृपां न कुरुते राजा सुप्रीवो मयि लक्ष्मण ॥
अनाथो हतराज्योऽयं गवणेन च धर्षितः । दीनो दूरगृहः कामी मां चैव शरणं गतः ।। ६७
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहं वानरराजस्य परिभूतः परंतप ॥ ६८
स कालं परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ६९
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुंगवम् । मूर्ख ग्राम्यसुखे सक्तं सग्रीवं वचनान्मम ।।
अर्थिनामुपपन्नानां पूर्व पाप्युपकारिणाम् । आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ।।
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम । सत्येन परिगृह्णाति स वीरः पुरुषोसमः ।।
कृतार्था पकृतार्थानां मित्राणां न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतनानोपभुञ्जते ।
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छति चापस्य रूपं विद्युद्गुणोपमम् ।।
घोरं ज्यातलनिर्घोष कुद्धस्य मम संयुगे। निर्घोषमिव वनस्य पुनः संश्रोतुमिच्छति ॥
काममेवंगतेऽप्यस्य परिझाते पराक्रमे । त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ७६