पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् । चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ।। चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः । तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ।। तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः । विज्ञायागमनं त्रस्तः संचचाल वरासनात् ॥ अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम् । सुव्यक्तमेष संप्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः । बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ।। ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् । उवाच हितमव्यग्रस्त्राससंभ्रान्त मानसः ।। किं नु तत् कारणं सुभ्रु प्रकृत्या मृदुमानसः । सरोष इव संप्राप्तो येनायं राघवानुजः।। किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते। न खल्वकारणे कोपमाहरेनरसत्तमः ।। यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् । तद्बुद्धधा संप्रधार्याशु क्षिप्रमर्हसि भाषितुम् ।। अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि । वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ।। त्वद्दर्शनविशुद्धात्मा न स कोपं करिष्यति । न हि स्त्रीषु महात्मानः क्वचित्कुर्वन्ति दारुणम् ॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् । ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम् ।। सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा । सलक्षणा लक्ष्मणसंनिधानं जगाम तारा नमिताङ्गयष्टिः।। स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा । अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसंनिकाद्विनिवृत्तकोपः ।। सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः । उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम् ।। किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे। कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः ।। स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितम् । भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ।। किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः । भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे । न चिन्तयति राज्यार्थं नास्माञ्शोकपरायणान् । सामात्यपरिषत्तारे पानमेवोपसेवते ॥ स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः । व्यतीतांस्तान् मदव्यग्रो विहरनावबुध्यते । न हि धर्मार्थसिद्धयर्थं पानमेवं प्रशस्यते। पानादर्थश्च धर्मश्च कामश्च परिहीयते ।। धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः । अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ।। मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् । तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ।।