पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४९० श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे

ततस्तमुद्योगमवेक्ष्य बुद्विमान् हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे रामसमीपगमनं नाम अष्टात्रिंशः सर्ग:

एकोनचत्वारिंशः सर्गः सेनानिवेशः इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि । आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नमः ॥ चन्द्रमा रश्मिभिः कुर्यात् पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिफुर्यात् परंतप ॥३ एवं त्वयि न तच्चित्रं भवेद्यत् सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ।। त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ।। जहारात्मविनाशाय वैदेहीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ।। नचिरात्तं हनिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ।। एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ दिशः पर्याफुलाश्वासन् रजसा तेन मूर्छता । चचाल च मही सर्वा सशैलवनकानना ॥ ९ ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवङ्गमैः ॥ १० निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः। कोटीशतपरीवारैः कामारूपिभिरावृता ।।११

नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः । हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ।।१२

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः । पद्मकेसरवर्णैश्च् श्वेतैर्मेरुकृतालयैः ॥ १३ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत । १४ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता । अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ।। तथापरेण कोटीनां सहस्रेण समन्वितः । पिता रुमायाः संप्राप्तः सुग्रीवश्वशुरो विभुः ।। १६ पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ।। अनीकर्बहुसाहस्रैर्वानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ।। गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ १९ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ।।