पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोन चत्वारिंशः सर्गः

महाचलनिभैर्घोरैः पनसो नाम यूथपः । आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ।। २१ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ।। ततः काञ्चनशैलाभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः ॥ २३ दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा । वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ।। मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणामदृश्यत॥ राजश्च बलवान् वीरः कोटिमिस्तिसृभिर्वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः ।।२६

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ।। २७ रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् । आययौ बलवांस्तूर्ण कोटीशतसमावृतः ।। ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्टतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ।। ततः पद्मसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गन्दः प्राप्तः पितृतुल्यपराक्रमः ।। ३० ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः । पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ।। इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत । एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ।। ३२ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः । अयुतेनावृतश्चैव सहस्रेण शतेन च ।। ३३ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ।। कैलासशिखराकारैर्वानरैर्भीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत ।। ३५ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥ ततो दधिमुखः श्रीमान् कोर्टिभिर्दशभिर्वृतः । संप्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः ।। शरभः कुमुदो वह्निर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः ।। ३८ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च । यूथपाः समनुप्राप्तास्तेषां संख्या न विद्यते ॥ ३९ आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ४० अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव । कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः ।। ४१ शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् । अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् ।। सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा । सुग्रीवस्त्वरितो रामे सर्वांस्तान वानरर्षभान् ।। ४३ निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ।। यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्हे सेनानिवेशो नाम एकोनचत्वारिंशः सर्ग: