पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे ४९६ अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ।। ३३ सर्वकामफलैः सर्वकालमनोहरैः । तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥३४ मधूनि पीत्वा मुख्यानि परं गच्छत वानराः । तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥३५ अगस्त्यभवनं यत्र निर्मित विश्वकर्मणा । तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ ३६ शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् । तत्र भोगवती नाम सर्पाणामालयः पुरी ॥३७ विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता । रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रमहाविषैः॥ ३८ सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३९ तत्र चानन्तरा देशा ये केचन सुसंवृताः । तं च देशमतिक्रम्य महानृषभसंस्थितः ॥४० सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः । गोशीर्षकं पद्मकं च हरिं श्यामं च चन्दनम् ॥ ४१ दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् । न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ॥४२ रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् । तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ ४३ शैलूपो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव च । रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥ अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः । ततः परं न वः सेव्यः पितृलोकः सुदारुणः ॥ ४५ राजधानी यमस्यैषा कष्टेन तमसा वृता । एनावदेव युष्माभिर्वीरा वानरपुंगवाः ॥ ४६ शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः । सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते ॥४७ गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ । यस्तु मासानिवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥४८ मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति । ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ॥४९ कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे दक्षिणाप्रेषणं नाम एकचत्वारिंशः सर्ग: द्विचत्वारिंशः सर्गः प्रतीचीप्रेषणम् अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम् । अब्रवीन्मेघसंकाशं सुषेणं नाम यूथपम् ॥१ तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥२