पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५०२ श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे सासुराः सहगन्धर्वाः सनागनरदेवताः । विदिताः सर्वलोकास्ते ससागरधराधराः॥४ गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महात्मनः॥५ तेजसा वापि ते भूतं समं भुवि न विद्यते । तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥ ६ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥७ ततः कार्यसमासङ्गमवगम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः॥८ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः । निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ॥९ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ १० तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ददौ तस्मै ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ १२ अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा । मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥ १३ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ॥१४ स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ १५ स तत् प्रकर्षन् हरिणां महद्बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभिनः॥१६ अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमरनल्पैः । पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व ॥१७ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे हनूमत्संदेशो नाम चतुश्चत्वारिंशः सर्ग: पञ्चचत्वारिंशः सर्गः वानरबलप्रतिष्ठा सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । पुनस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ॥१ एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् । तदुग्र शासनं भर्तुर्विज्ञाय हरिपुंगवाः ॥२ शलभा इव संछाद्य मेदिनी संप्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः ॥३ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः । उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥४ प्रतस्थे हरिभिर्वीरो हरिः शतबलिस्तदा । पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ॥५ ताराङ्गदादिसहितः प्लवगः पवनात्मजः । अगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥६ पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ॥७