पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टचत्वारिंशः सर्गः ५०५ विचिताः पर्वताः सर्वे वनानि नगराणि च । निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥ ११ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः। विचिताश्च महागुल्मा लताविततिसंतताः॥ १२ गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि महान्ति च ॥ १३ उदारसत्त्वाभिजनो महात्मा स मौथिलीं द्रक्ष्यति वानरेन्द्र । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥१४ इत्यार्षे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् किष्किन्धाकाण्डे कपिसेनाप्रत्यागमनं नाम सप्तचत्वारिंशः सर्ग: अष्टचत्वारिंशः सर्गः कण्डूवनादिविचयः सह ताराङ्गन्दाभ्यां तु गत्वा स हनुमान् कपिः । सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ १ म तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥२ पर्वताग्रनदीदुर्गान् सरांसि विपुलाम् द्रुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ॥ ३ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥४ ते भक्षयन्तो मूलानि फलानि विविधानि च । अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥५ स तु देशो दुरन्वेषो गुहागहनवान महान् । निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ॥६ त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः। तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः॥७ देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः । यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥८ निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् । न सन्ति महिषा यत्र न मृगा न च हस्तिनः॥९ शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः। न यत्र वृक्षा नौषध्यो न लता नापि वीरुधः॥ १० स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः । प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः ॥ ११ कण्डुर्नाम महाभागः सत्यवादी तपोधनः । महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥१२ तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः । प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः॥ १३ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् । अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥१४