पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५१८

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः। इहस्थोऽहं प्रपश्यामि रावणं जानकी तथा ॥२९
अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा । तस्मादाहारवीर्येण निसर्गेण च वानराः ।।३०
आयोजनशतात् साग्राद्वयं पश्याम नित्यशः । अस्माकं विहिता दृष्टिनिसर्गेण च दूरतः॥ ३१
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् । गर्हितं तु कृतं कर्म येन स्म पिशिताशिना ।। ३२
प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् । उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ॥ ३३
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ । समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।। ३४
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः । ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ।।३५
निर्दग्धपक्षं संपातिं वानराः सुमहौजसः । पुनस्तं प्रापयित्वा च तं देशं पतगेश्वरम् ॥ ३६

बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

किष्किन्धाकाण्डे सीताप्रवृत्युपलम्भो नाम अष्टपञ्चाशः सर्ग:

एकोनषष्टितमः सर्गः

सुपार्श्ववचनानुवादः

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य वदती दृष्टास्ते वचः प्लवगर्षभाः॥ १
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः । भूतलात् सहसोत्थाय गृध्रराजमथाब्रवीत् ॥२
क सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान सर्वं गतिर्मव वनौकसाम् ॥ ३
को दाशरथिबाणानां वनवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ।।४
स हरीन् प्रीतिसंयुक्तान् सीताश्रुतिसमाहितान् । पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥५
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र वायतलोचना ।।६
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते । चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ।।७
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः । आहारेण यथाकालं बिभर्ति पततां वरः ।।८
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः । मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥९
स कदाचित् क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥१०
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः । क्षुत्पिपासापरीतेन कुमारः पततां वरः॥ ११