पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टितमः सर्गः

५१९


स मामाहारसंरोधात् पीडितं प्रीतिवर्धनः । अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२
अहं तात यथाकालमामिषार्थी खमाप्लुतः । महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ।। १३
ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् । पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ।। १४
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् । स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः ॥१५
सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः । तेन साम्रा विनीतेन पन्धानमभियाचितः॥ १६
न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥१७
स यातस्तेजसा व्योम संक्षिपन्निव वेगितः । अथाहं खेचरैर्भूतैरभिगम्य सभाजितः ॥ १८
दिष्टया जीवति सीतेति ह्यब्रुवन मां महर्षयः । कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्।।१९
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः । स च मे रावणो राजा रक्षसां प्रतिवेदितः ।।२०
हरन् दाशरथेर्भायां रामस्य जनकात्मजाम । भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥२१
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् । एष कालात्ययस्तावदिति कालविदां वरः ।।२२
एनमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् । तच्छत्त्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे ।। २३
अपक्षोऽहं कथं पक्षी कर्म किंचिदुपक्रमे । यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ।। २४
श्रुयतां तत् प्रवक्ष्यामि भवतां पौरुषाश्रयम् । वाङ्मतिभ्यां तु सर्वषां करिष्यामि प्रियं हि वः ।।२५
यद्धि दाशरथेः कार्यं मम नन्नात्र संशयः। ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।। २६
प्रेषिताः कपिराजेन देवैरपि दुरासदाः । रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ।।२७
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे । कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।।२८
भवतां तु समर्थानां न किंचिदपि दुष्करम् । तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।। २९

न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

किष्किन्धाकाण्डे सुपार्श्ववचनानुवादो नाम एकोनष्टितमः सर्गः

षष्टितमः सर्गः

संपानिपुरावृत्तवर्णनम्

ततः कृतोदकं स्नातं तं गृधं हरियूथपाः । उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ।।१
तमङ्गदमुपासीनं तैः सवैर्हरिभिवृतम् । जनितप्रत्ययो हर्षात् संपातिः पुनरब्रवीत् ।।२
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम । तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ।।३