पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

५२०

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा ह्यहम् । सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥४
लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥५
ततस्तु सागराशैलान्नदीः सर्वाः सरांसि च । वनानि च प्रदेशांश्च समीक्ष्य मतिरागमत् ॥६
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ।।७
आसीच्चात्राश्रमः पुण्यः सुरैरपि सुपूजितः । ऋषिर्निशाकरो नाम यस्मिन्नुप्रतपा भवत् ।८
अष्टौ वर्षसहस्त्राणि तेनास्मिन्नृषिणा विना । वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥९
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥१०
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥ ११
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः । वृक्षो नापुष्पितः कश्चिदफलो वा न विद्यते ॥ १२
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः । द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम् ॥ १३
अथापश्यमदूरस्थमृषिं ज्वलिततेजसम् । कृताभिषेकं दुर्धर्पमुपावृत्तमुदङ्मुखम् ॥ १४
तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः । परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ।।१५
ततः प्राप्तमृर्षिं ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ १६
ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रानिष्क्रम्य ततः कार्यमपृच्छत ॥ १७
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते । अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ।। १८
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ।। १९
ज्येष्टो हि त्वं तु संपाते जटायुरनुजस्तव । मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ।।२०
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वायं कृतः केन सर्वमाख्याहि पृच्छतः॥२१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

किष्किन्धाकाण्डे संपातिपुरावृत्तवर्णनं नाम पष्टितमः सर्गः

एकषष्टितमः सर्गः

सूर्यानुगमनाख्यानम्

ततस्तदारुणं कर्म दुष्करं साहसात् कृतम् । आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ॥ १