पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५२४

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


सा वानराणां ध्वजिनी परिवार्याङ्गन्दं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥१५
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १६
तवस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः । अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ।। १७
क इदानीं महातेजा लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवं सत्यसन्धमरिंदमम् ।। १८
को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः । इमांश्च यूथपान् सर्वान् मोक्षयेत् को महाभयात् ॥१९
कस्य प्रभावाद्दारांश्च पुत्रांश्चव गृहाणि च । इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥२०
करय प्रसादाद्रामं च लक्ष्मणं च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २१
यदि कश्चित् समर्थो वः सागरप्लवने हरिः । स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २२
अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् । स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ २३
पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः । सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥२४
व्यपदेश्यफुले जाताः पूजिताश्चाप्यभीक्ष्णशः। न हि वो गमने सङ्गः कदाचित्कस्यचित्कचित् ।। २५
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

किष्किन्धाकाण्डे समुद्रलङ्घनमन्त्रणं नाम चतुःषष्टितमः सर्ग:

पञ्चषष्टितमः सर्गः

बलेयत्ताविष्करणम्

ततोऽङ्गादवचः श्रुत्वा सर्वे ते वानरोत्तमाः । स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥१
गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥२
आवभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ।।३
गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः॥४
शरभस्तानुवाचाथ वानरान् वानरर्षभः । चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ।।५
वानरांस्तु महातेजा अब्रवीद्गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ।।६
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे ।।७
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥८
सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् । अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः॥९
तेषां कथयतां तत्र सर्वास्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ।।१०
पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः । ते वयं वयसः पारमनुप्राप्ताः स्म सांप्रतम् ॥११