पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

५३४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाणे

पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः । प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ६६ उपरिष्टाच्छरीरेण च्छायया चावगाढया । सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ६७ यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ६८ सागरस्योर्मिमालानामुरसा शैलवर्मणा । अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ६९ कपिवातश्च बलवान् मेधवातश्च निःमृतः । सागरं भीमनिर्घोष कम्पयामासतुर्भृशम् ॥ ७० विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसः । पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ ७१ मेरुमन्दरसंकाशानुद्रतान स महार्णवे । अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ ७२ तस्य वेगसमुद्धूतं जलं सजलदं तदा । अम्बरस्थं विभ्राज शारदाभ्रमिवाततम् ॥ ७३ तिमिनक्रझपाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेच शरीराणि शरीरिणाम् ॥ ७४ प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः । व्योम्नि ते कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ७५ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता । छाया वानरसिंहस्य जले चारुतराभवत् ॥ ७६ श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी । तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७७ शुशुभे स महातेजा महाकायो महाकपिः । वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ७८ येनासौ याति बलवान वेगेन कपिकुञ्जरः । तेन मार्गेण सहमा द्रोणीकृत इवार्णवः ॥ ७९ आपाते पक्षिसङ्घानां पक्षिराज इवावभौ । हनूमान् मेघजालानि प्रकर्षन मारुतो यथा ॥ ८० प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८१ पाण्डरारुणवर्णानि नीलमाञ्जिष्टकानि च। कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८२ प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा । ववृपुः पुष्पवर्षाणि देवगन्धर्वचारणाः ॥ ८३ तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् । सिपवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८४ ऋषयन्तुष्टुवुश्चैनं प्लवमानं विहायसा । जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ८५ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः । प्रेक्ष्याकाशे कपिवरं सहसा विहतक्लमम ॥ ८६ तस्मिन् प्लवगशार्दृले प्लवमाने हनूमति । इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ८७ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः । करिष्यामि भविष्यामि 'सर्ववाच्यो विवक्षताम ॥ ८८ अहमिक्ष्वाकुनाथेन मगरेण विवर्धितः । इक्ष्वाकुसचिवश्वायं नावसीदितुमर्हति ॥ ८९ तथा मया विधानव्यं विश्रमेत यथा कपिः । शेषं च मयि विश्रान्नः सुग्वेनातिपतिष्यति ॥ ९० इति कृत्वा मतिं साध्वी समुद्रश्छन्नमम्भसि । हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९१ त्वमिहासुरसङ्घानां पातालतलबासिनाम् । देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ॥ ९२ त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् । पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९३

1. सर्ववाच्य : अत्यन्तानिन्धः २ पासवीर्याणाम छ. २ देवगन्थर्वदानवाः त्व