पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे प्रख्यातस्मिषु लोकेषु महागुणपरिग्रहः । वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ॥ ११८ तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर । अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥ ११९ धर्म जिज्ञासमानेन किं पुनर्यादृशो भवान्' । त्वं हि देवबरिष्ठस्य मारुतस्य महात्मनः ॥ १२० पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर । पूजिते त्वयि धर्मज्ञ पूजां प्राग्नोति मारुनः ॥ १२१ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् । पूर्व कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥ १२२ तेऽभिजग्मुर्दिशः सर्वा गरुडानिलवेगिनः । ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ॥ १२३ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया । ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ॥ १२४ पक्षांश्चिच्छेद वत्रेण तत्र तत्र सहस्रशः । स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ॥ १२५ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना । अस्मिंल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ॥ १२६ गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः । ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ॥ १२७ त्वया मे ह्यंष संबन्धः कपिमुख्य महागुणः । अस्मिन्नेवं गते कार्ये सागरस्य ममैव च ॥ १२८ प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे । श्रमं मोक्षये पूजां च गृहाण कपिसत्तम ॥ १२९ प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनान् । एवमुक्तः कपिश्रेष्टरतं नगोत्तममब्रवीत् ॥ १३० प्रीतोऽस्मि कृतमातिथ्यं मन्युरेपोऽपनीयताम् । त्वरते कार्यकालो मे ह्यहश्च व्यतिवर्तते ॥ १३१ प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा । इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः ॥ १३२ जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव । स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ॥ १३३ पूजितश्वोपपन्नाभिराशीर्मिरनिलात्मजः । अथोर्ध्व दूरमुत्पत्य हित्वा शैलमहार्णवौ ॥ १३४ पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे । ततश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन ॥ १३५ वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे" । तद्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम ॥ १३६ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः । देवताश्चाभवन दृष्टास्तत्रस्थान्तस्य कर्मणा ॥ १३७ काश्चनस्य सुनाभस्य सहस्राक्षश्च वासवः । उवाच वचनं श्रीमान् परितोषात् मगद्गदम् ॥ १३८ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः । हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ॥ १३९ अभय ते प्रयच्छामि तिष्ट सौम्य यथासुखम । साह्य कृतं त्वया सौम्य विक्रान्तस्य हनूमतः ॥१४० क्रमतो योजनशतं निर्भयस्य भये सति । रामस्यैप हितायैत्र याति दाशरथेर्हरिः ॥ १४१ सत्क्रियां कुर्वता तस्य तोपितोऽस्मि भृशं त्वया । ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ॥ १४२ देवतानां पतिं दृष्टा परितुष्टं शतक्रतुम् । स वै दत्तवरः शैलो बभूवावस्थितस्तदा ॥ १४३ १. त्वादृशो महान् घ ५ निरालम्बो जगाम कपिकुञ्जरः पुना २. गुप्तपक्षः छ इदं पद्यम् घ. नास्ति। ३. मोचय छ. ६. हि दौत्येन छ. शैकं महाकपि: क.