पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः

परसरानुरक्ताश्च नीतिमन्सो बहुश्रुताः । श्रीमन्तश्च महात्मानः शशा' दृढविक्रमाः ।।७ कीर्तिमन्तः प्रणिहिता यथावधनकारिणः । तेज क्षमायशप्राप्ताः स्मितपूर्वाभिभाषिणः ॥८ क्रोधात् कामार्थडेदोर्वा न अयुरन्तं बचः । तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ॥९ क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् । कुशला व्यवहारेषु सौहदेषु परीक्षिताः ।।१० प्रासकालं यया पलं धारयेयुः सुतेष्वपि । कोशसंभहणे युक्ता बलस्य च परिप्रहे । ११ अहित चापि पुरुष न हिंस्युरविदूषकम् । वीराश्च नियतोत्साहा राजशासमानुप्रताः ॥ १२ शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् । प्रमाक्षत्रमहिसन्तस्ते कोश समपूरयन् ।।१३ सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् । शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् ।। १४ नासीत् पुरे वा राष्ट्रे मा मृषावादी नरः क्वचित् । कश्चित्र दुष्टस्तत्रासीत् परदाररतो नरः ।। १५ प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् । सुवाससः सुवेषाश्च ते च सर्वे शुचित्रताः ॥१६ हितार्थाश्च नरेन्द्रस्य जापतो नयचक्षुषा । गुरोर्गुणगृहीताचे प्रख्याताश्च पराक्रमः॥१७ विदेशेष्वपि विज्ञाताः" सर्वतोबुद्धिनिश्चयाः" अभितो गुणवन्तश्च न चासन् गुणवर्जिताः।। सन्धिविप्रहतत्त्वज्ञाः प्रकृल्या संपदान्विताः । मन्त्रसवरणे शक्ताः सणाः सूक्ष्मासु बुद्धिषु ॥१९ नीतिशास्त्रविशेषक्षाः सततं प्रियवादिनः । ईशस्तैरमात्यैश्च राजा दशरथोऽनघः ।।२० उपपन्नो गुणोपेतैरन्वशासवसुंधराम् । अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयम्॥२१ प्रजानां पालनं कुर्वअधर्म परिवर्जयन् । विश्रुतत्रिषु लोकेषु वदान्यः सत्यसंगरः ।।२२ स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् । नाभ्यगच्छद्विशिष्ट वा तुल्यं वा शत्रुमात्मनः ॥ २३ मित्रवामतसामन्तः प्रतापहतकण्टकः । स शशास जगद्रजा दिवं देवपतिर्यथा ।।२४ तैर्मन्त्रिभिमन्वहिते नियुक्तैर्वृतोऽनुरकैः कुशलैः समर्थः । स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥२५ इत्यार्षे भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायां बालकाण्डे अमात्यवर्णना नाम सप्तमः सर्गः