पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

द्दश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधैर्बहुसाहस्त्रै परिपूर्ण समन्ततः ॥ ८ विनीतैरन्तपालैक्ष्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्ण समन्ततः ॥ ९ मुदितप्रमदारत्रं राक्षसेन्द्रनिवेशनम् । वराभरणसंहादैः समुद्रस्वननिःस्वनम् ॥ १० तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः । महाजनैः समाकीर्ण सिंहैरिव महदनम् ॥ ११ भेरीमृङ्गाभिरुतं शङ्खघोषविनादितम् । नित्यार्चित पर्वहुतं पूजितं राक्षसैः सदा ॥ १२ समुद्रभिव गम्भीरं समुद्रमिव निःस्वनम् । महात्मनो महद्वेश्म महारत्मपरिच्छदम् ॥ १३ महारत्नसमाकीर्ण ददर्श स महाकपिः । विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ १४ लङ्काभरणमित्येव सोऽमन्यत महाकपिः । चचार हनुमांस्तत्र रावणस्य समीपतः ॥ १५ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्नसंत्रस्तः प्रासादांश्च चचार सः ॥ १६ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तथा पुप्लुवे स महाकपिः ॥ १८ महोदरस्य च गृहं विरूपाक्षस्य चैव हि । विघुज्जिह्वस्य भवनं विघुन्मालेस्तथैव च ॥ १९ वत्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महावेगः सारणस्य च धीमतः ॥ २० तथा चेन्द्रजितो वेश्म जगाम हरियूथपः । जम्बुमालेः सुमालेश्व जगाम भवनं ततः ॥ २१ रशिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च । वत्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ २२ धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः । विघुद्रुपस्य भीमस्य घनस्य विघनस्य च ॥ २३ शुकनासस्य वक्रस्य शठस्य विकटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २४ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विघुज्जिह्नेन्द्रजिहानां तथा इस्तिमुखस्य च ॥ २५ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । क्रममाणः क्रमेणैव हनुमान् भारुतात्मजः ॥ २६ तेषु तेषु महार्हेषु भवनेषु महायशाः । तेषाभृद्धिमतामृद्धि ददर्श स महाकपिः ॥ १७ सर्वेषां समतिक्रम्य भवनानि समन्ततः । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ २८ रावणस्योपशायिन्यो ददर्श हरिसत्तमः । विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥ २९ शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः । ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ॥ ३० राक्षसांश्च महाकायामानाप्रहरणोद्यतान् । रक्ताश्वेतान् सितांक्ष्चपि हरितांश्च महाजवान् ॥ ३१ कुलीनान् रूपसंपन्नान् गजान् परगजारुजान । निष्ठितान् गजशिक्षायामैरावतसमान् युधि ॥ ३२ निहन्तृन् परसैन्यानां गृहे तस्मिन् ददर्श सः । क्षरतश्च यथा मेघान स्रवतश्च यथा गिरीन् ॥ ३३ मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः । सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ ३४ 1. समाननामानो हि लोके बहवः पुरुषाः एतन्नीत्यनुसरणे च श्रीमद्रामायणे पूर्वापरपिरोधा बारः संभवन्ति । तेन विजिहेन्द्रजिह्वामामिति बहुवचनमुप- परिहवा भवन्तीति संप्रदायः ॥ पद्यते । तथा एकस्य बहूनि नामान्यपि भवन्ति ।