पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५१
सप्तमः सर्गः


महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्।
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्॥ ६
नारीप्रवेकैरिव दीप्यमानं तटिद्भिरम्भोदवदर्च्यमानम्।
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्॥ ७
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्।
ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरनचित्रम्॥ ८
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः।
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्॥ ९
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि।
पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि॥ १०
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विघूर्णमानम्।
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम्॥ ११
कृताश्च वैदूर्यमया विहङ्गा रूप्यप्रवालैश्च यथा विहङ्गाः।
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः।
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः॥ १३
नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहरताः।
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४
इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम्।
पुनश्च तत् परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम्॥ १५
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्।
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगनिर्जिताम्॥ १६
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः।
अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः॥ १७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे पुष्पकदर्शनं नाम सप्तमः सर्गः