पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

५५८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी। पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा॥ ४३
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी॥ ४४
काचिदाडम्बरं नारी भुजसंयोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता॥ ४५
कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता॥ ४६
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ। उपगूह्याबला सुप्ता निद्राबलपराजिता॥ ४७
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिङ्गय सुश्रोणी प्रसुप्ता मदविह्वला॥ ४८
आतोद्यानि विचित्राणि परिष्वज्यापराः स्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव॥ ४९
तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम्॥ ५०
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम्॥ ५१
गौरीं कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्॥ ५२ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसंपदा॥ ५३
हर्षेण महता युक्तो ननन्द हरियूथपः॥ आरफोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम।
स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृति कपीनाम्॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे मन्दोदरीदर्शनं नाम दशमः सर्गः

एकादशः सर्गः
पानभूमिविचयः
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः॥ १
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥ २
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि॥ ३
अन्येयमिति निश्चित्य पानभूमौ चचार सः। क्रीडितेनापराः क्लान्ता गीतेन च तथापराः॥ ४
नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा। मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः॥ ५
तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः। अङ्गनानां सहस्रेण भूषितेन विभूषणैः॥ ६
रूपसल्लाँपशीलेन युक्तगीतार्थभाषिणा। देशकालाभियुक्तेन युक्तवाक्याभिधायिना॥ ७
रताभिरतसंसुप्तं ददर्श हरियूथपः। अन्यत्रापि परस्त्रीणां रूपसंलापशालिनाम्॥ ८