पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे अथ इष्टो दशरथः सुमन्त्रं प्रत्यभाषत । यथयशृङ्गरत्वानीखो विस्तरेण त्वयोच्यताम ॥. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संदिवायां बालकाण्डे ऋश्यशृशोपाख्यानं गम नवमः सर्गः

दशमः सर्गः ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा । यथर्श्यारत्वानीतो येनोपायेन मन्त्रिभिः ।।१ तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह । रोमपादमुवाचेदं सहामात्यः पुरोहितः ॥ २ उपायो निरपायोऽयमस्माभिरमिचिन्तितः । ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायतत्परः॥३ अनभिज्ञः स नारीणां विषयाणां सुखस्य च । इन्द्रियार्थरमिमतैर्नरचित्तप्रमाथिभिः॥४ पुरम.नाययिष्यामः क्षिप्रं चाभ्यवसीयताम् । गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ॥५ प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः । श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ॥६ पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा । वारमुख्यास्तु तच्छ्रुत्या यनं प्रविविशुर्महत् ।।७ आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने । ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।।८ पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् । न तेन जन्मप्रभृति दृष्टपूर्व तपस्विना ।। ९ स्त्री वा पुमान वा यच्चान्यत सर्व नगरराष्ट्रजम् । ततः कदाचित्तं देशमाजगाम यदृच्छया ॥ १० विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः । तश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वनैः।। ११ ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् । करत्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छ महे वयम् ।। १२ एकस्त्वं विजने घोरे वने चरसि शंस नः । अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ॥ १३ हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् । पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः ॥१४ ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि । इहाश्रमपदेऽस्माकं समीपे शुभदर्शनाः ।। १५ करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम । ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै॥ १६ तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः । आगतानां ततः पूजामृषिपुत्रश्चकार ह ।।१७ इदमयमिदं पाद्यमिदं मूलमिदं फलम । प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः॥ १८