पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् । परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ॥ ३५
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् । हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ॥ ३६
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥ ३७
स रामाय नमस्कृत्वा राज्ञे दशरथाय च । विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ३८
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् । कस्माद्यो मा हरेत्त्वत्तः क्षमसे तं महीपते । ३९
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ । त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ ४०
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः । जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥ ४१
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् । भर्तारं ससमुद्राया धरण्या वासवोपमम् ।। ४२
एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि । किमर्थमस्त्रं रक्षस्सु न योजयसि राघव ।। ४३
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम् ॥ ४४
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः । किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ४५
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः । कस्य हेतोर्न मां वीरः परित्राति महाबलः ।। ४६
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ । सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ४७
ममैव दुष्कृतं किचिन्महदस्ति न संशयः । समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ।। ४८
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् । अथाब्रवीन्महातेजा हनुमान् मारुतात्मजः ॥ ४९
त्वच्छोकविमुखो रागमो देवि सत्येन मे शपे । रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।। ५०
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् । इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।। ५१
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ । त्वदर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५२
हत्वा च समरे क्रूरं रावणं सहबान्धवम् । राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ॥ ५३
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः । सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः ॥ ५४
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा । उवाच शोकसंतप्ता हनुमन्तं प्लवङ्गमम् ॥ ५५
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ५६
स्रजश्च सर्वरनानि प्रिया याश्च वराङ्गनाः । ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ ५७
पितरं मातरं चैव संमान्याभिप्रसाद्य च । अनुप्रव्राजितो रामं सुमित्रा येन सुप्रजाः ॥ ५८
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् । अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ ५९
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः । पितृवद्वर्तते रामे मातृवन्मां समाचरन् । ६०