पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

असकृत्तैर्महोत्साहै: ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिमिः ॥ ३७
मद्विशिष्टाय तुल्याश्च सन्ति तन्त्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ।। ३८
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ३९
सदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ४०
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। ४१
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरी लङ्कां सायकैर्विधमिष्यतः।। ४२
सगणं रावणं हत्वा राघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ॥ ४३
सदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी । न चिराद्द्र्क्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥ ४४
निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यबान्धवे । त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ४५
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि । रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ ४६
एवमाधास्य वैदेही हनुमान मारुतात्मजः । गमनाय मतिं कृत्वा वैदेही पुनरब्रवीत् ।। ४७
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राधवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ।। ४८
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥४९
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। ५०
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा । न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५१
मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् । शचीव पत्या शक्रेण भर्त्रा नाथवती यसि ।। ५२
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ! अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे ।
न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् ॥ ५४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां सहितायां
सुन्दरकाण्डे हनुमत्संदेशो नाम एकोनचत्वारिंशः सर्ग:

चत्वारिंशः सर्गः
हनूमत्प्रेषणम्
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।।
त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर । अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥
यथा तं पुरुषव्याघ्र गात्रैः शोकाभिकर्शितैः । संस्पृशेयं सकामाहं तथा कुरु दयां मयि ।।
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम । क्षितामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥