पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अबालबद्वालदिवाकरप्रभः करोत्यय कर्म महन्महाबलः ।
न चात्य सर्वावाक्रमशोभिनः प्रमापणे मे मतिरत्र जायते ॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चमातिसहश्च संयुगे।
असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ।।
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः।
पराक्रमो यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ।।
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।
प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽनिरुपेक्षितुं क्षमः ।।
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।
चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ।।
स तस्य तानष्ट हयान् महाजवान् समाहितान भारसहान् विवर्तने ।
जघान वीरः पथि वायुसेविते तलपहारैः पवनात्मजः कपिः ।।
ततस्तलेनाभिहतो महारथः स तस्य पिङगपमन्त्रिनिर्जितः।
प्रभमनीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।
ततोऽभियोद्द्रुषिरुप्रवीर्यवान् विहाय देहं मरुतामिवालयम ।।
ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते।
समेत्य ते मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्द्रुढम् ।।
सतं समाविध्य सहस्रशः कपिमहोरगं गृह्य इवाण्डजेश्वरः ।
मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥
स भग्नबाहूरुकटिशिरोधरः क्षरन्नस्रुम्न्ग्मथितास्थिमोचनः ।
प्रभिन्नसन्धिः प्रविकीर्णबन्धनो इतः क्षितौ वायुसुतेन राक्षसः ।।
महाकपिभूमिवले निपीड्य तं चकर रक्षोऽधिपतेर्महद्भयम् ।
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपमन्नगैः ।।
सुरैश्च सेन्दैर्भ्रुशजातविसत्मयैर्हते कुमारे स कपिनिरीक्षितः।
निहत्य तं वज्रिसुतोपमं रणे कुमरमकक्षं क्षतजोपमेक्षणम् ।।
तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहनिकायां संहितायाम् सुन्दरकाण्डे अक्षकुमारवधो नाम सप्तचत्वारिंशः सर्गः