पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् । इयं च राजधर्माणां क्षत्त्रस्य च मतिर्मता ॥ १३
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम ! अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।।
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमहीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।।

ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः । युद्धोद्धतः कृतोत्साहः संग्रामं प्रत्यपद्यत ॥
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥
स पक्षिराजानिलतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्ऱाईः ।
रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।।
१८
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनुमान् यत्र सोऽभवत् ॥ १९
स तस्य रथनिर्घोपं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरोऽसौ संप्रहष्टतरोऽभवत् ।।
सुमहचापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।।
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।
दिशश्च सर्वाः कलुषा बभू वुर्मृर्गाश्च रौद्रा बहुधा विनेदुः ॥
समागतास्तत्र तु नागयक्षा महर्पयश्चक्रचराश्च सिद्धाः ।
नभः समावृत्य च पक्षिसङ्घा विनेदुरुचैः परमप्रहृष्टाः ।।
आयान्तं सरथं दृष्टवा तूर्णमिन्द्रजितं कपिः । विननाद महानादं व्यवर्धत च वेगवान् ।
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विस्फारयामास तटिदुर्जितनिःस्वनम् ।।
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ।
कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।।
स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।
शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेयः ।।
ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुम्खान् न् ।
मुमोच वीरः परवीरहन्ता सुसनतान् वनिपातवेगान् ।।
स तस्य तु स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।।
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः । हरिस्तस्याभिलक्ष्यस्य मोहयल्लक्ष्यसंग्रहम् ।। ३०
शराणामग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३१
तावुभौ वेगसंपन्नौ रणकर्मविशारदौ । सर्वभूतमनोग्रहि चक्रतुयुद्धमुत्तमम् ।।