पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः । वालव्यजनहस्ताभिरारात् समुपसेवितम् ॥
दुर्धरेण प्रहस्तेन महापार्श्वन रक्षसा । मन्त्रिभिर्मन्त्रतत्त्वज्ञैनिकुम्भेन च मन्त्रिणा ॥
उपोपविष्टं रक्षोभिश्चतुभिर्बलदर्पि तैः । कृत्सं परिवृतं लोकं चतुर्भिरिव सागरैः ॥
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः । अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥
अपश्यद्राक्षसपतिं हनुमानतितेजसम् । विष्टितं मेरुशिखरे सतोयमिव तोयदम् ।।
स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः । विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥
भ्राजमानं ततो दृष्टा हनुमान् राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः । अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः । स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥
अस्य क्रुरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः । तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥
अयं ह्ययुत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् । इति चिन्तां बहुविधामकरोन्मतिमान् कपिः ।।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहमिकायां संहितायाम्
मुन्दरकाण्डे रावणप्रभावदर्शनं नाम एकोनपञ्चाशः सर्ग:

                  पञ्चाशः सर्गः
                    प्रहस्तप्रश्न:
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । रोषेण महताविष्टो रावणो लोकरावणः ॥
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसावृतम् । किमेष भगवानन्दी भवेत् साक्षादिहागतः ।।
येन शप्तोऽस्मि कैलासे मया संचालिते पुरा । सोऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि विद्वाणोऽपि वासुरः॥३
स राजा रोषताम्राक्षः ग्रहस्तं मन्त्रिसत्तमम् । कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ।।
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥५
मत्सुरीमप्रधृष्यां वागमने किं प्रयोजनम् । आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः ॥ ६
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ ७
यदि तावत्वमिन्द्रेण प्रेषितो रावणालयम् । तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य वा। चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।।
विष्णुना प्रेषितो वापि दूतो विजयकाक्षिणा । न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ १०