पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

निशाचराणामधिपोऽनुजस्य विभीपणस्योत्तमवाक्यमिष्टम् ।
जग्राह बुद्वथा सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ॥
क्रोधं च जातं हृदये निरुध्य विभीषणोक्तं वचनं सुपूज्य ।
उवाच रक्षोऽधिपतिर्महात्मा विभीषणं शत्रभृतां वरिष्ठम् ॥
२९

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम सुन्दरकाण्डे दूतवनिवारणं नाम द्विपञ्चाशः सर्गः त्रिपञ्चाशः सर्गः पावकशैत्यम्

तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥
सम्यगुक्तं हि भवता दूतवध्या विगार्हता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।।
कपीनां किल लागूलमिष्टं भवति भूपणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।।
ततः पश्यन्त्विमं दीनमङ्गवरूप्यकर्शितम् । समित्रज्ञातयः सर्वे बान्धवाः ससुहजनाः ॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्व सचत्वरम् । लागूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।।
तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । वेष्टयन्ति स्म लागृलं जीर्णैः कार्पासकैः पटैः ।।
संवेष्ट्यमाने लागृले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ॥
तैलेन परिपिच्याथ तेऽग्नि तत्रावपातयन् । लाङगृलेन प्रदीमेन गक्षमांस्तानपातयत् ॥
स तु रोषपरीतात्मा बालसूर्यसमाननः । लागृलं संप्रदीप्तं तदृष्ट्वा तस्य हनूमतः ।। ९
सहस्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः । स भूयः संगतैः क्रूरै राक्षसेहरिसत्तमः ।। १०
निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् । कामं खलु न मे शक्का निबद्धस्यापि राक्षसाः ।। ११
छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः । यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ॥ १२
बनन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता । सर्वपामेव पर्याप्तो राक्षसानामहं युधि ॥ १३
रामस्य किं तु प्रीत्यर्थं विषहिष्येऽहमीदशम् । लङ्का चारयितव्या वै पुनरेव भवेदिति ।। १४
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः । अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १५
कामं वन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च । पीडां कुर्वन्तु राक्षांसि न मेऽस्ति मनसः श्रमः ॥ १६
ततस्ते संवृत्ताकारं सत्त्ववन्तं महाकपिम् । परिगृह्य ययुईष्टा राक्षसाः कपिकुञ्जरम् ।। १७