पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

निपेतुर्भूतले रुग्णाः शक्रायुधहता इव । कन्दरोदरसंस्थानों पीडितानां महौजसाम् ॥ २८
सिंहानां निनदो भीमो नमो भिन्दन् हि शुश्रुवे । सस्तव्याविद्धवसना ब्याकुलीकृतभूषणाः॥ २९
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् । अतिप्रमाणा बलिनो दीप्तजिला महाविषाः ।। ३०
निपीडितशिरोमीवा व्यवेष्टन्त महायः । किनरोरगगन्धर्वयक्षविद्याधरास्तदा ॥
३१
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः । स च भूमिधरः श्रीमान बलिना तेन पीडितः॥ ३२
सवृक्षशिखरोदनः प्रविवेश रसातलम् । दशयोजनविस्तारविंशयोजनमुच्छितः ॥ ३३
धरण्यां समतां यातः स बभूव धराधरः । स लिलयिषुर्भीम सलीलं लवणार्णवम् ।। ३४
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् सुन्दरकाण्डे प्रतिप्रयाणोत्पतनं नाम षट्पञ्चाशः सर्गः सप्तपञ्चाशः सर्गः हनूमत्प्रत्यागमनम्

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।।
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।।
वातसङ्घातजालोमि' चन्द्रांशुशिशिराम्बुमन् । भुजङ्गन्यक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।।
हनुमान् मारुतगतिमहानौरिव सागरम । अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।।
प्रसमान इवाकाशं ताराधिपमिवोलिखन् । हरनिव सनक्षत्रं गगनं सार्कमण्डलम् ।।
मारुतस्यात्मजः श्रीमान् कपिर्योमचरो महान् । हनुमान मेघजालानि विकर्षभिव गच्छति ॥ ६
पाण्डरारुणवर्णानि नीलमाञ्जिष्टकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥
प्रविशत्रभ्रजालानि निष्कामंश्च पुनः पुनः । प्रच्छन्नश्वप्रकाशश्च चन्द्रमा इव लक्ष्यते ।
विविधानधनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यत्तनुर्वीरस्तदा चन्द्रायतेऽम्बरे ॥
ताायमाणो गगने बभासे वायुनन्दनः । दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः॥ १०
नदन्नादेन महता मेघस्वनमहास्वनः । प्रवरान राक्षसान हत्वा नाम विश्राव्य पात्मनः ॥ ११
आफुलां नगरी कृत्वा व्यायत्वा च रावणम् । अर्दयित्वा पलं घोरं वैदेहीमभिवाध च ॥ १२
माजगाम महातेजाः पुनर्मध्येन सागरम् । पर्वतेन्द्रं सुनामं च समुपरपृश्य वीर्यवान् ॥ १३
ज्यामुक्त इव नराचो महावेगोऽभ्युपागतः । स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।।