पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टपाश्चशः सर्गः ६४९

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् । पदातिबलसंपन्नान् प्रेषयामास रावणः ।। १२०
परिघेणैव तान् सर्वानयामि यमसादनम । मन्त्रिपुत्रान हताश्रुत्वा ममरे लघुविक्रमाम् ।। १२१
पञ्च सेनाप्रगाशूरान् प्रेपयामाम रावणः । तानहं सहसैन्यान वै सर्वानेवाभ्यसूदयम् ।। १२२
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् । बहुभी राक्षसैः साधं प्रेपयामास गवणः ॥ १२३
तं तु मन्दोदरीपुत्रं कुमार रणपण्डितम् । सहसा खं समुत्क्रान्तं पायोश्च गृहीतवान् ॥ १२४
तमासीनं' शतगुणं भ्रामयित्वा व्यपेषयम् । तमक्षमागतं भग्नं निशम्य म दशाननः ।। १२५
तत इन्द्रजितं नाम द्वितीयं रावणः सुनम । व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ १२६
तथाप्यहं बलं सर्व तं च राक्षसपुंगवम । नष्टौजसं रणे कृत्वा परं हर्पमुपागमम् ।। १२७
महता हि महाबाहुः प्रत्ययेन महाबलः । प्रेपितो रावणेनैव मह वीरैर्मदोत्कटैः ॥ १२८
सोऽविपी हि मां बुद्ध्वा स्वसैन्यं चावदितम् । ब्राह्मणास्त्रेण स तु मां प्राबध्नाशातिवेगिनः ॥१२९
रज्जुभिशाभिवन्नन्ति नतो मां नत्र राक्षसाः । रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। १३०
दृष्टा संभाषितश्चाहं रावणेन दुरात्मना । पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। १३१
तत्सर्वं च मया तत्र मीतार्थमिति जल्पितम । तस्यास्तु दर्शनाकासी प्राप्तस्त्वद्भवनं विभो ॥ १३२
मारुतस्यौरसः पुत्रो वानरो हनुमानहम । रामदूतं च मां विद्धि सुग्रीवमचिवं कपिम ॥ १३३
सोऽहं दृत्येन गमन्य त्वत्सकाशमिहागतः । सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।। १३४
धर्मार्थकाममहितं हितं पथ्यमुवाच च । वसतो ऋश्यमूक मे पर्वते विपुलुद्रुमे ।। १३५
राघवो रणविक्रान्तो मित्रत्वं समुपागतः । तेन मे कथितं राज्ञा भार्या मे रक्षमा हता ॥ १३६
तन्त्र माहय्यमस्माकं कार्य सर्वात्मना त्वया । मया च कथितं तस्मै वालिनश्च वधं प्रति ॥ १३७
तत्र साहाय्यहेतो, समयं कर्तुमर्हसि । वालिना इतराज्येन सुग्रीवेण सह प्रभुः ॥ १३८
चक्रेऽनिसाक्षिक सख्यं राघवः सहलक्ष्मणः । तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ॥ १३९
वानरागां महाराजः कृतः स प्लवता प्रभुः । तस्य साहाय्यमस्माभिः कार्य सर्वात्मना विह ॥ १४०
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । क्षिप्रमानीयतां सोना दीयतां राघवाय च ।। १४१
यावन्न हरयो वीरा विधमन्ति वलं तव । वानराणां प्रभावो हि न केन त्रिदिनः पुरा ।। १४२
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः । इति वानरराजस्त्वामाहेत्यभिहितो मया ।। १४३
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव । तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।। १४४
मत्प्रभावमविज्ञाय रावणेन दुरात्मना । ततो विभीषणो नाम तस्य भ्राता महामतिः ॥ १४५
तेन राक्षसराजोऽसौ याचितो मम कारणात् । नैवं राक्षसशार्दूल त्यज्यतामेप निश्चयः ॥ १४६