पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकषष्टितमः सर्गः

किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान् । वयमेव हि गत्वा तान हत्वा राक्षसपुंगवान्।।
राघवं द्रष्टुमर्हामः सुप्रीवं सहलक्ष्मणम् । तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः ।।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् । नैपा बुद्धिर्महाबुद्धे यद्वीषि महाकपे ।।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् । नानेतुं कपिराजेन नैव रामेण धीमना ।।
कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् । राघवो नृपशार्दूलः फुलं व्यपदिशन स्वकम् ।। १०
प्रतिज्ञाय स्वयं राजा सीताविजयमप्रतः । सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ।। ११
विफलं कर्म च कृतं भवेतुनि तस्य च । वृथा च दर्शितं वीर्यं भवेद्वानरपुंगवाः ॥ १२
तस्माद्गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः । सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ।। १३
न तावदेषा मतिरक्षमा नो यथा भवान पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां सहितायाम् सुन्दरकाण्डे अङ्गदजाम्बवत्संवादो नाम पष्टितमः सर्गः एकपष्टितमः सर्गः मधुवनप्रवेशः

ततो जाम्बवतो वाक्यमगृह्णत वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः।।
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः । महेन्द्रामं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।।
मेरुमन्दरसंकाशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ।।
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनुमन्तं महावेगं वहन्त इव दृष्टिभिः ।।
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः।
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः । सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।।
प्लवमानाः खमुत्पत्य ततस्ते काननौकसः । नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ॥
यत्तन्मधुवनं नाम सुप्रीवस्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः । मातुल: कपिमुख्यस्य सुग्रीवत्य महात्मनः ॥
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनःकान्ततमं महत् ।। १०
ततस्ते वानरा हृष्टा दृष्टा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ११
ततः कुमारस्तान वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् । अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे ॥ १२
ततश्चानुमताः सर्वे संप्रष्टा वनौकसः । मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ।।