पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीकिरामायणे सुन्दरकाण्ड

सर्व चैवाङ्गदे दोपं श्रावयिष्यामि पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।।
इष्टं मधुवनं ह्येतत् सुप्रीवस्य महात्मनः । पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।।
स वानरानिमान सर्वान् मधुलुब्धान गतायुषः । पातयियति दण्डेन सुग्रीवः ससुजनान् ॥३४
वध्या ह्येते दुरात्मानो नृपाझापरिभाविनः । अमर्षप्रभवो रोषः सफलो नो भविष्यति ।।
एवमुक्त्वा दधिमुखो वनपालान् महाबलः । जगाम सहसोत्पत्य वनपालेः समन्वितः॥
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः । सहस्रांशुसुतो धीमान सुग्रीवो यत्र वानरः॥ ३७
रामं च लक्ष्मण चैव दृष्टा सुग्रीवमेव च । समप्रतिष्टां जगतीमाकाशानिपपात ह ।। ३८
संनिपत्य महावीर्यः सर्वैस्तैः परिवारितः । हरिधिमुखः पालैः पालानां परमेश्वरः ।। ३९
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम । सुप्रीवस्य शुभौ मूनां चरणौ प्रत्यपीडयत् ॥ ४०

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहत्रिकायां संहितायाम सुन्दरकाण्डे दधिमुग्यखिली कारो नाम द्विपष्टितमः सर्ग: त्रिषष्टितमः सर्गः सुग्रीवहर्षः

ततो मून निपतितं वानरं वानरर्पभः । दृष्ट्रवोद्विमहृदयो वाक्यमेतदुवाच ह ।।
उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम । अभयं ते भयं वीर सर्वमेवाभिधीयताम ।।
स तु विश्वासितस्तेन सुप्रीवेण महात्मना । उत्थाय सुमहाप्राझो वाक्यं दधिमुखोऽब्रवीन् ।
नैवःरजसा राजन्न त्वया नापि वालिना । वनं निसृष्टपूर्व हि भक्षितं तच्च वानरैः ।।
एभिः प्रधर्षिताश्चैव वानरा बनरक्षिभिः । मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ॥
शिष्टमत्रापविष्यन्ति भक्षयन्ति तथापरे । निवार्यमाणास्ते सर्वे भुकुटि' दर्शयन्ति हि ॥
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः । वारयन्तो वनात्तस्मात क्रुद्धैर्वानरपुङ्गवैः ।।
ततस्तैर्वहुभिर्वीरैर्वानरैर्वानरर्षभ । संरक्तनयनैः क्रोधावरयः प्रविचालिताः ।।
पाणिभिनिहताः केचित् केचिजानुभिराहताः । प्रकृष्टाश्च यथाकामं देवमार्ग च दर्शिताः ।।
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।।