पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टषष्टितमः सर्गः ६६३

ममोत्पतनसंभ्रान्ता शोकवेगसमाहता । हनुमन् सिंहसंकाशौ तावुभौ रामलक्षमणौ ॥
मुग्रीवं च सहामात्यं सर्वान् ज्या स्वनामयम् । मामुवाच ततः सीता सभाग्योऽसि महाकपे ॥ ३५
यद्रक्ष्यसि महाबाहुं रामं कमललोचनम् । लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम् ।।
सीतयाप्येवमुक्तोऽहमनवं मैथिली तथा । पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दिनि ॥ ३७
यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् । राघवं च महाभागे भर्तारमसितेक्षणे ॥
साब्रवीन्मां ततो देवी नैष धर्मों महाकपे । यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ।। ३९
पुरा च यदह वीर स्पृष्टा गात्रेषु रक्षसा । तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥ ४०
गच्छ त्वं कपिशार्दूल यत्र तो नृपतेः सुतौ । इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता ॥४१
यथा च स महबाहुर्मा तारयति राघवः । अस्माहुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥
इमं च तीनं मम शोकवेगं रक्षोभिरेभिः परिभर्सनं च ।
बृयास्तु रामस्य गतः समीपं शिवश्च तेऽवास्तु हरिप्रवीर ।।
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्व सीतां कुशलां समग्राम् ॥

इत्यारें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकाया संहितायाम सुन्दरकाण्डे सीताभापितानुवचन नाम सप्तपष्टितमः सर्गः अष्टषष्टितमः सर्गः हनूमत्समाश्वासवचनानुवादः

अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमः । तव स्नेहानरव्याघ्र सौहाददिनुमान्य वै ।।
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।।
यदि वा मन्यसे वीर क्सैकाहमरिंदम । कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥
मम चाप्यल्पभाम्यायाः सांनिध्यात्तव वानर । अस्य शोकविपाकस्य मुहूर्त स्याद्विमोक्षणम् ।।
गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि संदेहो मम स्यामात्र संशयः ।।
तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखादुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्युक्षेषु हरीश्वर ।।
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हय॒क्षसैन्यानि तौ वा नरवरात्मजौ ॥