पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८९
सप्तदशः सर्गः

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर । अस्मिन् मुहुर्ते न भवेत्त्वां तु धिक्कुलपासनम् ॥१५
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः । उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ १६
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् ॥१७
स त्वं भ्रातासि मे राजन् ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः॥
इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव । सुनीतं हितकामेन वाक्यमुक्तं दशानन ।। १९
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः । सुलभाः पुरुषा राजन् सततं प्रियवादिनः ॥ २०
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः । बद्धं कालम्य पाशेन सर्वभूतापहारिणा ॥ २१
न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा । दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ॥ २२
न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः । शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ॥ २३
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः । तन्मर्पयतु यच्चोक्तं गुरुत्वा द्धितमिच्छता ॥ २४
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् । स्वस्ति तेऽस्तु गमिष्यामि मुखी भव मया विना ॥

निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर।
परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्धिरीरितम् ॥ २६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायाम्

युद्धकाण्डे विभीषणाकोशो नाम षोडश: सर्ग:

सप्तदशः सर्गः

विभीषणशरणागतिनिवेदनम्

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । जाजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ।।१
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ।।२
स हि मेघाचलप्रख्यो वज्रायुधसभप्रमः । वरायुधधरो वीरो दिव्याभरणभूषितः ।।३
ये चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि वर्मायुधोपेता भूषणैश्च विभूपिताः ॥४
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥५
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह । हनुमत्प्रमुग्वान् सर्वानिदं वचनमुत्तमम् ।।६
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ।।७
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्व इदं वचनमब्रुवन् ।।८