पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०७
षड्विंशः सर्गः


एकस्थानगता यत्र चत्वारः पुरुर्षभाः । लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ।। २९
रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः । सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ।।३०
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् । उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः॥३१
यादृशं तस्य रामस्य रूपं प्रहरणानि च । वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः॥ ३२
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सेन्द्रैरपि सुरासुरैः ।।३३
व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः । शतयोजनमायामस्तीर्णा सेना च सागरम् ॥ ३४
निविष्टो दक्षिणे तीरे रामः स च नदीपतेः । तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते ॥३५
प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां संप्रति योद्धुमिच्छन्ताम् ।
अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ।। ३६

इत्यार्षे श्रीमद्रामायणे वात्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे शुकसारणप्रेषणादिकं नाम पञ्चविंशः सर्गः

षड्विंशः सर्गः

कपिबलावेक्षणम्

नद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ १
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। २
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥ ३
को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुष वाक्यं रावणो राक्षसाधिपः ॥ ४
आरुरोह ततः श्रीमान् प्रामादं हिमपाण्डरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ ५
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः । पश्यमानः समुद्रं च पर्वतांश्च वनानि च ॥ ६
ददर्श पृथिवीदेशं सुसंपूर्ण प्लवङ्गमैः । तदपारमसङ्खयेयं वानराणां महद्बलम् ॥७
आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां वानरमुख्यानां के शूराः के महाबलाः॥ ८
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ॥९
सारणाचक्ष्व तत्त्वेन किंप्रभावाः प्लवङ्गमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ॥ १०
आचचक्षेऽथ मुख्यज्ञो मुख्यास्तत्र वनौकसः । एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ॥११
यूथपानां सहस्राणां शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥ १२