पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ । यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ।। १३
अपध्वंसत गच्छध्वं संनिकर्षादितो मम । न हि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम् ॥
हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ । एवमुक्तौ तु सत्रीडौ तावुभौ शुकसारणौ ॥१५
रावणं जयशब्देन प्रतिनन्द्याभि निःसृतौ । अब्रवीच्च दशग्रीवः समीपम्थं महोदरम् ।।१६
उपस्थापय मे शीघ्रं चारान्नीतिविशारदान् । महोदरम्तथोक्तम्तु शीघ्रमाज्ञापयच्चरान् ।। १७
तनश्वाराः संत्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥१८
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः। चारान् प्रत्यायितान् शूरान् भक्तान् विगतसाध्वमान् ॥
इतो गच्छत रामस्य व्यवमायं परीक्षथ । मन्त्रेष्वभ्यन्तरा येऽम्य प्रीत्या तेन समागताः ।।
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति । विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ।। २१
चारेण विदितः शत्रुः पण्डितैर्वयुधाधिपैः । युद्धे म्वल्पेन यत्नेन समासाद्य निरस्यते ॥ २२
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षमेश्वरम् । शार्दुलमग्रनः कृत्वा ननश्चक्रुः प्रदक्षिणम् ॥ २३
ततस्ते तं महात्मानं चाग राक्षममत्तमम् । कृत्वा प्रदक्षिणं जग्मुर्यत्र गमः मलक्ष्मणः ॥ २४
ते सुबेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ममुग्रीवविभीषणौ ॥ २५
प्रेक्षमाणाश्चमू तां च बभूवुर्भयविक्लवाः । ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षमा ॥ २६
विभीषणेन तत्रस्था निगृहीता यदृच्छया । शार्दृलो ग्राहितम्त्वेकः पापोऽयमिति राक्षस. ॥
मोचितः सोऽपि रामेण बध्यमानः प्लवङ्गमैः । आनृशंम्येन रामम्य मोचिता राक्षमा परे ॥
वानरैरर्दिताम्ते तु विक्रान्तैर्लघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताः श्वमन्तो नष्टचेतमः ॥ २९
तता दशग्रीवमुपस्थितास्तु ते चारा बहिनित्यचरा निशाचगः ।
गिरः मुवेलस्य समीपवासिनं न्यवेदयन् रामबलं महाबलाः ।।३०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे शार्दूलादिचारपणं नाम एकोनविंशः सर्ग:

त्रिंशः सर्गः वानरबलसंख्यानम्

ततस्तमक्षोभ्यबलं लङ्काधिपनये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।।१
चाराणां रावण श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किचिच्छार्दूलं वाक्यमब्रवीत् ॥