पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति ।
तमिह शरणमभ्युपेहि देवं दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् युद्धकाण्डे मरमासमाश्वासनं नाम त्रयस्त्रिंशः सर्गः चतुस्त्रिंशः सर्गः रावणनिश्चयकथनम्

अथ तां जातसंतापां तेन वाक्येन मोहिताम् । सरमा हादयामास पृथिवीं चौरिवाम्भसा ॥ १
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । उवाच काले कालजा स्मिनपूर्वाभिमापिणी ॥
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षिणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ।। ३
न हि मे क्रममाणाया' निगलम्बे विहायसि । समर्थो गतिमन्वेतुं पक्नो गरुडोऽपि वा ॥ ४
एवं ब्रुवाणां तां सीतां सरमा पुनरब्रवीत् । मधुरं श्लक्ष्णया वाचा पूर्व शोकाभिपन्नया ।।
समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्नर ।।
मप्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा नव । ज्ञातुमिच्छामि तं गत्वा किं करोतीनि रावणः ।।
स हि मायाबलः क्रूरो रावणः शत्रुरावणः । मां मोहयति दुष्टान्मा पीतमात्रेव वारुणी ॥
तर्जापयति मां नित्यं भपियति चासकृत । राक्षसीमिः सुघोराभिर्या मां रक्षन्ति नित्यशः १
उद्विग्ना शक्किना चास्मि न खम्थं च मना मम । नयाचाहमुद्विग्ना अशोकवनिकां गता ।।
या हि नाम कथा तस्य निश्चितं वापि यद्भवेत् । निवेदयेथाः सबै नत्परो मे म्यादनुग्रहः ॥११
मा त्वेवं ब्रुवती सीतां मरमा वल्गुभापिणी । उवाच वदनं तम्याः स्पृशन्ती बाप्पविक्लवम् ॥
एप ते यद्यभिप्रायस्तदा गच्छामि जानकि । गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । शुश्राव कथितं तस्य रावणस्य समन्त्रिणः॥ १४
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । पुनरेवागमत्क्षिप्रमशोकवनिकां नदा । १५
सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ।। १६
तां तु सीता पुनः प्राप्तां सरमां बल्गुभाषिणीम्। परिष्वज्य च मुस्निग्धं ददौ च स्वयमासनम् ॥
इहासीना सुखं सर्वमाख्याहिं मम तत्त्वतः । करस्य निश्चयं तम्य रावणस्य दुरात्मनः ॥ १८
एवमुक्त्वा तु सरमा सीतया वेपमानया । कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ।।