पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

चिन्तयन् मनसा तस्य दुष्कर्मपरिपाकजम् । पापं नाशयति ह्येनं स्वस्य राष्ट्रस्य राक्षसः ॥ १५
जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ।।
रावणस्तु सहामात्यो मन्त्रयित्या विमृश्य च । लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥१७
स ब्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम् । दक्षिणस्यां महावीयौँ महापार्श्वमहोदरौ ॥ १८
व्यादिदेश महाकायौ राक्षसर्बहुभिवृतौ । पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ।।
व्यादिदेश महामापं बहुभी राक्षसैर्वृतम् । उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। २०
स्वयं चात्र भविष्यामि मन्त्रिणम्तानुवाच ह । राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् ।। २१
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः । विधानं लङ्कायाः कृत्वा राक्षसपुंगवः ॥ २२
कृतकृत्यमिवात्मानं मन्यते कालचोदितः ।।
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् ।
जयाशिषा मन्त्रिगणेन पूजितो विवेश चान्तःपुरमृद्धिमन्महत् ।। २३

इत्यार्षे श्रीमदामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् युद्धकाण्डे पुरद्वाररक्षा नाम षट्त्रिंशः सर्ग: सप्तत्रिंगः मर्गः रामगुल्मविभागः

नरवानरगजौ तौ म च वायुसुतः कपिः । जाम्बवानृक्षराजश्च गक्षमश्च विभीषणः ।।
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभ. कपिः । सुषणः सहदायादो मैन्दी द्विविद् एव च ॥ २
गजो गवाक्षो गवयो' नलोऽथ पनसम्तथा । अमित्रविपयं प्राप्ताः ममवेनाः समर्थयन् ॥
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। मामुरोरगगन्धर्वैग्मरैरपि दुर्जया ।।
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं संनिहिती ह्यत्र रावणो राक्षमाधिपः ।।
तथा तेषु बुवाणेपु गवणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत्पुष्कलार्थ विभीषणः ॥
अनलः शरभश्चैव संपातिः प्रघसम्तथा । गत्वा लङ्कां ममामात्याः पुरी पुनरिहागताः ॥
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् । विधानं विहितं यच्च तदृष्ट्वा सुमुपस्थिताः ।।
संविधानं यदाहुम्ते रावणस्य दुरात्मनः । राम तब्रुवतः सर्व याथातथ्येन मे शृणु ॥ २
पूर्व प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीयौँ महापार्श्वमहोदरौ ॥
१०
इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः । पट्टमासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ।।
नानाप्रहरणैः शूरैरावृतो रावणात्मजः । राक्षसानां सहस्रेस्तु बहुभिः शस्त्रपाणिमिः ॥ १२