पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तत्रिंशः सर्गः ७२७ युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः। उत्तरं नगरद्वारं रावणः म्वयमास्थितः ॥ १३

विरूपाक्षस्तु महता शूलवड्गधनुष्मता । बलेन राक्षसैः सार्धे मध्यमं गुल्ममास्थितः ।। १४
एतानेवंविधान् गुल्मालकायां समुदीक्ष्य ते । मामकाः सचिवाः सर्वे पुनः शीघ्रमिहागताः||१५
गजानां च सहस्रं च रथनामयुतं पुरे। हयानामयुने द्वे च मायक्रोटिश्च रक्षसाम् ।। १६
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः ।।
एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते । परिवारः सहस्राणां सहस्रमुपतिष्ठते ।।
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः । एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् ।। १९
लङ्कायां सचिवैः सर्व रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ।। २०
रावणावरज• श्रीमान् रामप्रियचिकीर्षया । कुबेरं तु यदा राम रावण. प्रत्ययुध्यत ॥ २१
पष्टिः शतसहस्राणि तदा निर्यान्ति राक्षमाः । पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् ॥ २२
मदृशा येऽत्र दर्पण रावणम्य दुगत्मनः । अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ।। २३
समर्था ह्यसि वीर्यण सुगणामपि निग्रहे । तद्भवांश्चतुरङ्गेण बलेन महता वृनः ।।
न्यूह्यदं वानरानीकं निर्मथिष्यसि रावणम् । रावणावरजे वाक्यमेवं ब्रुवति राघवः ।। २५
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् । पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः ।। २६
प्रहस्तपनियोद्धा स्याद्वानरैर्बहुभिर्वृतः । अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ।। २७
दक्षिणे बाधतां द्वारे महापार्थमहोदरी । हनुमान् पश्चिमद्वारं निपीड्य पक्नात्मजः ।। २८
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः । दैत्यदानवसंचानामृपीणां च महात्मनाम् ॥ २९.
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः । परिक्रामति यः सर्वाल्लोकान् संतापयन् प्रजाः॥ ३०
तम्याहं राक्षमेन्द्रस्य स्वयमेव वधे धृतः । उत्तरं नगरद्वारमहं सौपित्रिणा सह ॥ ३१
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः । वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान् ।। ३२
राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे । न चैव मानुषं रूपं कार्य हरिभिराहवे ॥ ३३
एषा भवतु संज्ञा नो युद्धेऽस्मिन् वानरे बले । वानरा एव नश्चिहं स्वजनेऽस्मिन् भविष्यति ॥
वयं तु मानुषेणैव सप्त योत्स्यामहे परान् । अहमेष सह भ्रात्रा लक्ष्मणेन महौजसा ।। ३५
आत्मना पञ्चमश्चायं सखा मम विभीषणः । स रामः कृत्यसिद्धयर्थमेवमुक्त्वा विभीषणम्।। ३६
सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम् । रमणीयतरं दृष्ट्वा सुवेलम्य गिरेस्तटम् ॥