पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

७२८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा ।
प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मति सोऽरिवधे महात्मा ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुर्विशतिसहस्रिकायां सहितायाम् युद्धकाण्डे रामगुल्मविभागो नाम सप्तत्रिंशः सर्ग: अष्टात्रिंशः सर्गः सुवेलारोहणम्

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुप्रीवमिदमब्रवीत् ।। १
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च लक्ष्णया परया गिरा ।। २
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ३
लड़ां चालोकयिष्यामो निलये तस्व रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४
येन धर्मो न विज्ञाती न तद्वृत्तं कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥५
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे । यम्यापराधान्नीचम्य वधं द्रक्ष्यामि रक्षसाम् ।। ६
एको हि कुरुते पाप कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ।।
एवं संमन्त्रयन्नेव सक्रोधी रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥
पृष्ठता लक्ष्मणश्चैनमन्वगच्छत्समाहितः । मशरं चापमुद्यम्य मुमह द्विक्रमे रतः ॥
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ १०
गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ।। ११
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ १२
एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणान्तं गिरि गिरिचारिणः ॥ १३
अध्यारोहन्त शतश: सुवेलं यत्र राषः। ते त्वदीर्येण कालेन गिरिमारुह्य सर्वतः ।।
ददृशुः शिखरे तम्य विषक्तामिव खे पुरीम् । तां शुभां प्रवरद्वारा प्राकारपरिशोभिताम्॥ १५
लां राक्षससंपूर्णां ददृशुई रियूथपाः । प्राकारचयसंस्थैश्च तदा नीलैनिशाचरैः ।।
१६
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् । ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाक्षिणः ।।१७