पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स संप्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥
इस्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे युद्धारम्भो नाम द्विचत्वारिंशः सर्गः

त्रिचत्वारिंशः सर्गः
द्वन्द्वयुद्धम्
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां संबभूवाथ बलकोपः सुदारुणः ।। १
हयः काञ्चनापीडैजैश्वामिशिखोपमैः । स्थैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ।।
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो गवणस्य जयैषिणः ।।
वानराणामपि चमूर्च्हती जयमिच्छनाम् । अभ्यधावन तां मेनां रक्षमा कामरूपिणाम् ॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तन ॥
अङ्गदेनेन्द्रजित्साधं चालिपुत्रेण राक्षसः । अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ।।
प्रजथेन च सपातिनित्यं दुर्मर्षणो रणे । जम्बुमालिनमारब्धो हनुमानपि वानरः ॥
संगतः सुमहाक्रोधो गक्षसो रावणानुजः । समर तीक्ष्णवेगेन मित्रनेन विभीषणः ।।
तपनेन गजः सार्धं गक्षसेन महाबल: । निकुम्भेन महातेजा नीलाऽपि समयुध्यन ।।
वानरेन्द्रम्तु सुग्रीवः प्रघसेन ममागनः । संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ॥ १०
अमिकेतुश्धदुर्धर्षा रश्मिकेतुश्च गक्षमः । सुप्तघ्नो यज्ञकोपश्च रामेण मह संगताः ।।
वज्रमुष्टिस्तु मैन्देन द्विविदैनाशनिप्रमः । गजसाभ्यां सुघोराभ्यां कपिमुन्यो समागतौ ॥ १२
वीरः प्रतपनो घोरो राक्षसी ग्णदुर्धरः । समर तीक्ष्णवेगेन नलेन समयुध्यत ।
धर्मस्य पुत्रो बलवान सुषेण इति विश्रुतः । म विद्युन्मालिना सार्धमयुध्यन महाकपिः ॥ ११
वानराश्चापरे भीमा गक्षसैरपरैः सह । द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ||
तत्रासीसुमहधुद्धं तुमुलं रोमहर्पणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ।।१६
हरिराक्षसदेहेभ्यः प्रभूताः केशगाद्वलाः। गरीरसङ्घाटवहाः प्रमुमुः शोणितापगाः ।।
आजघानेन्द्रजित्क्रुद्धो वज्रणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ।। १८
तम्य काञ्चनचित्राङ्गं रथं माश्वं ससारिथम् । जधान समर श्रीमानङ्गदी वेगवान् कपिः ॥ १९
संपातिस्तु त्रिभिर्वाणः प्रजङ्घेन समाहतः । निजघानाश्वकर्णेन प्रजचं रणमूर्धनि ॥ २०