पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

७६४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

शूलैः प्रमथिताः केचित्केचिञ्च परमायुधैः । परिघेराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ १२
निरुच्छासाः कृताः केचित्पतिता धरणीतले । विमिन्नहृदयाः केचिदिषुसंधानसंदिताः ॥ १३
केचिद्द्विधा कृताः खङ्गैः स्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूलैः पार्वतश्च विदारिताः ॥
वानरैश्चापि संक्रुद्ध राक्षसौघाः ममन्ततः । पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले ।।
वज्रस्पर्शतलैर्हन्तैर्मुष्टिभिश्च तता भृशम् । वेमुः शोणितमाम्येभ्यो विशीर्णदशनेक्षणाः ॥
आर्तनादं च स्वनतां सिंदनादं च नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। १७
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः । विवृत्तनयनाः गश्चक्रुः कर्माण्यभीतवत् ।।
नरान्तकः कुम्भहनुमहानादः समुन्ननः । एते प्रहम्नसचिवाः सर्वे जघ्नुर्वनौकसः ॥
तेषामापततां शीघ्रं निघ्नतां चापि वानगन् । द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। २०
दुर्मुखः पुनरुत्पाट्य कपिः म विपुलद्रुमम् । राक्षसं क्षिप्रहम्नस्तु समुन्नतमपोथयत ॥ २१
जाम्बवास्तु सुसंक्रुद्धः प्रगृह्य महती शिलाम् । पानयामाम तेजम्वी महानादम्य वक्षसि ॥ २२
अथ कुम्भहनुम्तत्र तारणासाद्य वीर्यवान् । वृक्षणाभिहतो मूनि प्राणान् संत्याजयद्रणे ।।
अमृष्यमाणम्तत्कर्म प्रहम्नो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥
आवर्न इव संजज्ञे उभयोः सेनयोम्तदा । क्षुभितम्याप्रमेयस्य मागरम्येव निःम्पनः ।। २५
महता हि गरौघण प्रहस्तो युद्धको विदः । अर्दयामास संक्रुद्वा वानरान् परमाहवे ॥ २६
वानराणां गरीरैश्च राक्षसानां च मेदिनी। बभूव निचिता घोरा पतितरिव पर्वतैः ।।
सा मही रुधिरौघेण प्रच्छन्ना संप्रकाशते । मंछन्ना माधवे मासि पलाशेरिव पुष्पितैः ।। २८
हतवीरोधवप्रां नु भमायुधमहाद्रुमाम् । शोणितौघमहानीयां यमसागरगामिनीम् ।।
यकृष्लीहमहापां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥
गृध्रहंमगणाकीर्णा कङ्कमारमसेविनाम् । मेद:फेनममाकीर्णामालम्ननितनिःम्वनाम् ॥
तां कापुरुषदुस्तारां युद्धभूमिमया नदीम् । नदीमिव घनापाये हंससारसमेविताम् || ३२
राक्षसाः कपिमुग्न्याश्च तेरुम्तां दुस्नगं नदीम् । यथा पद्मरजोध्वम्ता नलिनी गजयूथपाः ।। ३३
ततः सृजन्तं बाणौघान् प्रहन म्यन्दने स्थितम् । ददर्श तरसा नीलो विनिमन्तं प्लवङ्गमान् ॥
उद्धृत इव वायु: ग्वे महदअवलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ॥ ३५
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे। स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।।
नीलाय व्यसृजद्वाणान् प्रहम्तो चाहिनीपतिः। ते प्राप्य विशिखा नीलं विनिर्भिध समाहिताः।।
मही जम्मुर्महावेगा रुषिता इव पन्नगाः। नीलः शरैरभिहतो निशिनर्बलनीपमः ।।
३८